(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.122. अध्यायः 122
Mahabharata - Bhishma Parva - Chapter Topics
अपगतेषु राजसु कर्णेन रसहि भीष्ममेत्य तदभिवादनम् ॥ 1 ॥ भीष्मेण कर्णं प्रति तस्य कुन्तीसुतत्वोक्त्या पाण्डवैः सह संगमचोदना ॥ 2 ॥ कर्णेन सयुक्तिकं पाण्डवैः संगमस्य दुष्करत्वमभिधाय भीष्मक्षमापनपूर्वकं स्वावासगमनम् ॥ 3 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-122-0x(4251)(44602)
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।
तूष्णींभूते महाराज भीष्मे शन्तनुनन्दने ॥ 6-122-1(44603)
श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसंत्रासस्त्वरयोपजगाम ह ॥ 6-122-2(44604)
स ददर्श महात्मानं शरतल्पगतं तदा।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥ 6-122-3(44605)
निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥ 6-122-4(44606)
राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेभ्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥ 6-122-5(44607)
तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ॥ 6-122-6(44608)
पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥ 6-122-7(44609)
न विप्रियं ममैवेह यत्स्पर्धेथा मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥ 6-122-8(44610)
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥ 6-122-9(44611)
कृष्णद्वैपायनाच्चैव तेजसा च न संशयः ।
न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥ 6-122-10(44612)
तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम्।
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ॥ 6-122-11(44613)
येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥ 6-122-12(44614)
नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥ 6-122-13(44615)
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥ 6-122-14(44616)
न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥ 6-122-15(44617)
इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥ 6-122-16(44618)
कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥ 6-122-17(44619)
तथा च बलवान्राजा जरासन्धो दुरासदः।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत्॥ 6-122-18(44620)
ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥ 6-122-19(44621)
व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥ 6-122-20(44622)
सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन।
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥ 6-122-21(44623)
मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥ 6-122-22(44624)
कर्ण उवाच। 6-122-23x(4252)
जानाम्येव महाबाहो सर्वमेतन्न संशयः।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥ 6-122-23(44625)
अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥ 6-122-24(44626)
वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः ।
वमु चैव शरीरं च पुत्रदारं तथा यशः ॥ 6-122-25(44627)
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥ 6-122-26(44628)
कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥ 6-122-27(44629)
दैवं पुरुषकारेण को विवर्तितुमुत्सहेत्।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥ 6-122-28(44630)
भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः॥ 6-122-29(44631)
अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥ 6-122-30(44632)
न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥ 6-122-31(44633)
अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥ 6-122-32(44634)
दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा ।
यन्मयेह कृतं किंचित्तन्मे त्वं क्षन्तुमर्हसि ॥ 6-122-33(44635)
भीष्म उवाच। 6-112-34x(4253)
न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम्।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥ 6-122-34(44636)
निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥ 6-122-35(44637)
अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनंजयात् ॥ 6-122-36(44638)
युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ॥ 6-122-37(44639)
प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥ 6-122-38(44640)
सञ्जय उवाच। 6-122-39x(4254)
इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च।
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥ 6-122-39(44641)
` वैशम्पायन उवाच। 6-122-40x(4255)
इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ॥ 6-122-40(44642)
यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् ।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ॥ 6-122-41(44643)
विधूय सर्वपापानि विहायान्ते कलेवरम् ।
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ॥ 6-122-42(44644)
तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ।
शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ॥ 6-122-43(44645)
भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् ।
भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ॥' ॥ 6-122-44(44646)

इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां भीष्मपर्वणि भीष्मवधपर्वणि द्वाविंशत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं भीष्मवधपर्व भीष्मपर्व च ।
------------
Mahabharata - Bhishma Parva - Chapter Footnotes

6-122-1xa अस्यानन्तरं द्रोणपर्व भविष्यति। 6-122-1xb तस्यायमाद्यः श्लोकः। 6-122-1xc तमप्रतिमसत्वौजोबलवीर्यपराक्रमम्। 6-122-1xb हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिन ॥ 6-122- 6-122-3 जन्मशय्यागतं जन्मकाले शरशय्यागतम्। शरजन्मत्वात् ॥ 6-122-12 येनासीति सार्धश्लोकः झo पुस्तक एवास्ति ॥ 6-122-15 पुरुषेषु मानुषेषु ॥ 6-122-18 त्वया सदृशो नाभवत् त्वया जित इत्यर्थः । इयं कथा राजधर्मे। अनेन नागायुतबलत्वं कर्णस्य सूचितम् ॥ 6-122-19 युधि संप्रहारे ॥ 6-122-22 निर्वृत्तं समाप्तम् ॥ 6-122-24 अवकीर्णस्त्यक्तः ॥ 6-122-28 निवर्तितुं निवर्तयितुम् ॥ 6-122-30 पाण्डूनर्जुनं विहाय चतुरः । अर्जुनेन योत्स्ये अन्यान्विजेष्ये इति भावः ॥ 6-122-33 विप्रतीपं विरुद्धम् ॥ इदं भीष्मपर्व कुंभघोणस्थेन टीo आर्o कृष्णाचार्येण टीo आर्o व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1829 सन 1907


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.